(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.81. अध्यायः 081
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मेण दुर्योधनसंहर्षणम् ॥ 1 ॥ राज्ञां द्वन्द्वीभूय मेलनम् ॥ 2 ॥ अर्जुनपराक्रमवर्णनम् ॥ 3 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-81-0x(4157)(42250)
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।
अब्रवीद्भरतश्रेष्ठः संप्रहर्षकर वचः ॥ 6-81-1(42251)
भीष्म उवाच। 6-81-2x(4158)
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः।
अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः ॥ 6-81-2(42252)
विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः ।
त्रिगर्तराजो बलवान्मागधश्च सुदुर्जयः ॥ 6-81-3(42253)
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः ।
`कृपश्च सह सोदर्यैस्तव राजन्पदानुगाः।'
रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥ 6-81-4(42254)
देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ 6-81-5(42255)
पादाताश्च तथा शूरा नानाप्रहरणा युधि।
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ 6-81-6(42256)
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः।
देवानपि रणे जेतुं समर्था इति मे मतिः ॥ 6-81-7(42257)
अवश्यं हि मया राजंस्तव वाच्यं हितं सदा।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 6-81-8(42258)
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ।
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥ 6-81-9(42259)
पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः । 6-81-10(42260)
सञ्जय उवाच।
एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥ 6-81-10x(4159)
ओषधीं वीयसंपन्नां विशल्यश्चाभवत्तदा ।
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥ 6-81-11(42261)
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ।
मण़्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥ 6-81-12(42262)
संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ।
रथैरनेकसाहस्रैः समन्तत्परिवारितम् ॥ 6-81-13(42263)
अश्ववृन्दैर्महद्भिश्च रिष्टितोमरधारिभिः ।
नागेनागे रथाः सप्त सप्त चाश्वा रथेरथे ॥ 6-81-14(42264)
अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः।
एवं व्यूहं महाराज तव सैन्यस्य दंशितम् ॥ 6-81-15(42265)
स्थितं रणाय महते भीष्मेण युधि पालितम् ।
दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥ 6-81-16(42266)
रथानामयुतं चापि पुत्राश्च तव दंशिताः।
चित्रसेनादयः शूरा अभ्यरक्षन्तितामहम् ॥ 6-81-17(42267)
रक्ष्यमाणाः स तैः शूरैर्गोप्यमानाश्च तेन ते।
सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ 6-81-18(42268)
दुर्योधनस्तु समरे दंशितो रथमास्थितः ।
व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ 6-81-19(42269)
ततः शब्दो महानासीत्पुत्राणां तव भारत ।
रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥ 6-81-20(42270)
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्भुखो युधि।
मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥ 6-81-21(42271)
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ।
मण्डलं तु समालोक्य व्यूहं परमदुर्ययम् ॥ 6-81-22(42272)
स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत्।
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥ 6-81-23(42273)
रथिनः सादिनः सर्वे सिंहनादमथानदन् ।
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥ 6-81-24(42274)
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ।
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम् ॥ 6-81-25(42275)
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ।
नकुलः सहदेवश्च मद्रराजानमीयतुः ॥ 6-81-26(42276)
विन्दानुविन्दावावन्त्यौ युयुधानमभिद्रुतौ ।
सर्वे नृपास्तु समरे धनंजयमयोधयन् ॥ 6-81-27(42277)
भीमसेनो रणे यान्तं हार्दिक्यं समवारयत्।
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥ 6-81-28(42278)
आर्जुनिः समरे राजंस्तव मुत्रानयोधयत् ।
प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥ 6-81-29(42279)
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ।
अलम्बुसस्तदा राजन्सात्यकिं युद्धदुर्मदम् ॥ 6-81-30(42280)
ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत्।
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥ 6-81-31(42281)
श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः ।
चेकितानश्च समरे कृपमेवान्वयोधयत् ॥ 6-81-32(42282)
शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् ।
ततो राजसमूहास्ते परिवव्रुर्धनंजयम् ॥ 6-81-33(42283)
शक्तितोमरनाराचगदापरिघपाणयः।
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्॥ 6-81-34(42284)
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे।
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ 6-81-35(42285)
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ 6-81-36(42286)
अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन ।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ 6-81-37(42287)
एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृद्य च ।
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ 6-81-38(42288)
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।
तटाकं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥ 6-81-39(42289)
हाहाकारो महानासीत्तव सैन्ये विशांपते ।
छाद्ममानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥ 6-81-40(42290)
देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः ।
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथाऽऽगतौ ॥ 6-81-41(42291)
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् ।
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ 6-81-42(42292)
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशांपते ॥ 6-81-43(42293)
तेषां राजसहस्राणां हयानां दन्तिनां तथा।
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ 6-81-44(42294)
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः ।
अगाधे मञ्जमानानां भीष्मः पोतोऽभवत्तदा ॥ 6-81-45(42295)
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।
संचुक्षुभे महाराज वातैरिव महार्णवः ॥ ॥ 6-81-46(42296)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे एकाशीतितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.